Search This Blog

Thursday, September 20, 2012

हिन्द्वादिशब्दार्थपुनर्विचारः



पक्ष-चन्द्र-शून्य-पादमिते खृष्टवर्षे सेप्टेम्बरमासगते द्वादशदिनाङ्के कलिकातस्थैशियाटिकसोसाइटीत्याख्यसंस्थानेनायोजिते तत्रस्थविद्यासागरसभागृहे स्वामिप्रणवानन्दस्मृतिवक्तृताप्रदानावसरे काशीतः समागतानां महामहोपाध्यायानां शास्त्रभूषणशास्त्रार्थमहारथाद्युपाधिविभूषितानां पण्डितमार्तण्डश्रीमनुदेवभट्टाचार्यमहाभागानां सुरगिरा प्रदत्तं भाषणं श्रुत्वा महाहर्षो मे अजायत । तत्र भाषणावसरे खलु आलोचिताः केचित् कौतुहलोद्दीपकविषयाः समासतोऽत्र विदुषां लोचनालोकप्राप्तये अधः प्रदत्ताः

प्रथमतो, बहुव्यवहृतौ मानवभारतीयशब्दौ न गोष्ठीनिरपेक्षं धर्मनिरपेक्षं वा अर्थं प्रकाशयतः।  अपि तु, एतौ गोष्ठीसापेक्षार्थप्रकाशकावेव स्तः ।

द्वितीयतो, भारतीय इत्युक्ते पुरा प्रसिद्धभरतनामकनृपतिशासितप्रजस्त्तच्छासितराष्ट्रञ्चैव संबुध्यन्ते ।

तृतीयतो, मानव इत्युक्ते मनोरपत्यं मनूक्तनियमाद्यनुवर्ती चैव संलक्ष्यते । अत्र तुलनामूलकभाषाविदां मानवशब्द इन्दौरोपीयभाषागोष्ठीगताङ्ग्लभाषागतस्य Man इति शब्दस्य पर्यायशब्द इत्येवं मतं न तु प्रमाणप्रमितमिति तैर्विद्वत्प्रवरैर्ध्वनितम् ।

चतुर्थतो, यतो भरतो वर्णाश्रमवादी भगवन्मनुर्वर्णाश्रमवादप्रवक्ता च, ततो भारतीयमानवशब्दौ न कदापि विश्वतोमुखार्थप्रकाशकौ भवितुमर्हतः । अपि तु, आभ्यां सर्वदा सर्वथैव सङ्कीर्णार्थः प्रकाश्यते ।

पञ्चमतो, हिन्दु इति शब्देन केवलं कश्चिद्भौगोलिकावधिः सूच्यते । विषयेऽस्मिन् ऋग्वेदीयबार्हस्पत्यसंहितागतो हिमालयं समारभ्य यावदिन्दुसरोवरं तं देवनिर्मितं देशं हिन्दुस्थानं प्रचक्षते इत्येव श्लोकः प्रमाणतया महामहोपाध्यायश्रीमनुदेवभट्टाचार्यमहाशयैरुद्धृतः । अत्र श्लोकस्थस्य हिमालयशब्दस्य हीत्यक्षरमिन्दुशब्दगतन्द्वित्यक्षरेण सह मिलित्वैव हिन्दुशब्दं निष्पादयतीति तैरभ्युपगमितम् । यथा शतक्रतुशब्दगताभ्यां शक्रेत्यक्षराभ्यां शक्र इति वैदिकदेवताया इन्द्रस्य नाम सम्पाद्यते, तथैवात्र । एतेन लाघवात् तुलनामूलकभाषातत्त्वविदामारबदेशनिवासिनां सिन्धुशब्दस्य भ्रमितोच्चारणाद्धिन्दुशब्दस्योत्पत्तिरित्येवं मतं गौरवेण परिहारयोग्यम् ।

अन्ततो, महामहोपाध्यायपण्डितमार्तण्डश्रीमनुदेवभट्टाचार्यैः सम्प्रदाय इति शब्दस्य नवीनमेकं व्याख्यानं प्रदत्तम् । सम्यक् प्रकर्षश्च यो दायः स सम्प्रदाय इति व्युत्पत्त्या सम्प्रदायशब्दस्यार्थोऽविनाशी वितरणाद्वृद्धियोग्यं श्रेष्ठधनस्वरूपं विद्याधनमेवेति । प्रसङ्गेऽस्मिन् भट्टाचार्यपादैः अपूर्वः कोऽपि कोशोऽयं विद्यते तव भारती व्ययतो वृद्धिमायाति क्षयमायाति सञ्चयात् इति व्यये कृते वर्धत एव नित्यं विद्याधनं सर्वधनप्रधानम् इति च वचनद्वयमुद्धृतम् । जीमूतवाहनकृते दायभागाख्ये स्मार्तग्रन्थे यो दायशब्दो वर्तते, तस्यार्थः पितृसम्पत्तिरिति । एषा सम्पत्तिर्दानेन विभाजनेन वा क्षयं प्राप्नोति । किन्तु एतद्विपरीतस्थितः सम्प्रदायो, यस्य वृद्धिर्व्ययत एव । एवं सम्प्रदायो नाम सर्वधनप्रधानविद्याधनमस्ति यस्य स एव साम्प्रदायिको, न तु कोऽपि सङ्कीर्णतादोषदुष्ट एकदेशदर्शीति दिक् । 

No comments:

Post a Comment